Meaning
Supreme God Krishna spoke
He who has shed his fondness for everything worldly, and who neither rejoices nor loathes as he receives good or evil, is known as Sthitaprajna— the one whose mind is firmly stabilized in divine consciousness. (2:57)
Sanskrit
श्रीभगवान् उवाच
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥
Word-by-word
यः सर्वत्र अन्-अभि-स्नेहः, तत् तत् प्राप्य शुभ-अशुभम्,
न अभि-नन्दति, न द्वेष्टि— तस्य प्रज्ञा प्रतिष्ठिता।