Meaning
Supreme God Krishna spoke
Spiritual seekers who earnestly strive can realize the presence of this soul within themselves. But those whose conscience remains unpurified and tainted by ignorance may struggle to perceive this soul, even with dedicated effort. (15:11)
Sanskrit
श्रीभगवान् उवाच
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥
Word-by-word
यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अव-स्थितम्;
यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति, अ-चेतसः।