Meaning
Supreme God Krishna spoke
Understand that knowledge Noble (Sāttvic) by which the One Imperishable Being is seen as present in all beings, inseparable in separate existences. (18:20)
Sanskrit
श्रीभगवान् उवाच
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥
Word-by-word
सर्व-भूतेषु येन एकम् भावम् अ-व्ययम् ईक्षते,
अ-वि-भक्तम् वि-भक्तेषु— तत् ज्ञानम् विद्धि 'सात्त्विकम्' ।