Meaning
Supreme God Krishna spoke
Arjuna, this state of Yoga remains beyond the reach of those who practice extreme abstinence from food or indulge excessively, who completely forgo sleep or oversleep. (6:16)
Sanskrit
श्रीभगवान् उवाच
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन॥
Word-by-word
न अति अश्नतः तु योगः अस्ति, न च एकान्तम् अन्-अश्नतः,
न च अति स्वप्न-शीलस्य, जाग्रतः न एव च अर्जुन।