Meaning
Supreme God Krishna spoke
O Arjuna, there is no limit to My divine manifestations. What I have conveyed here is merely a glimpse of My infinite expanse. (10:40)
Sanskrit
श्रीभगवान् उवाच
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
Word-by-word
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम्, परन्तप!
एषः तु उत्-देशतः प्रोक्तः विभूतेः विस्तरः मया।